पैल स्स्वां संहितामूच इन्द्रप्रमितये मुनिः।

बाष्कलाय च सोप्याह शिष्येभ्य स्संहितां स्वकाम्।। 11।।

चतुर्द्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव।

पराशरायाग्निमित्रे इन्द्रप्रमिति रात्मवान्।। 12।।

अध्यापयत्संहितां स्वां माण्डूकेयमृषिं कविम्।

तस्य शिष्यो वेदमित्र स्सौभर्यादिभ्य ऊचिवान्।। 13।।

शाकल्यस्तत्सुत स्स्वान्तु पञ्चधा व्यस्य संहिताम्।

वात्स्य-मुद्गल-शालीय-गोखल्य-शिशिरेष्वधात् ।। 14।।

जातूकर्ण्यश्च तच्छिष्य स्सनिरुक्तां स्वसंहिताम्।

बलाक-पैज-वैताळ-विरजेभ्यो ददौ मुनिः।। 15।।

बाष्कलिः प्रतिशाखाभ्यो वालखिल्याख्यसंहिताम्।

चक्रे बालाय निर्भज्य कासाराश्चैव तान्दधुः।। 16।।

बह्वृचा स्संहिता ह्येता एभि र्ब्रह्मर्षिभि र्धृताः।

श्रुत्वैतच्छन्दसां व्यासं सर्वपापैः प्रमुच्यते।। 17।।

अस्यार्थः- व्यासात् पैलः संहितां पदक्रमञ्च त्रिविधरूपं पठित्वा इन्द्रप्रमितये ददौ। इन्द्रप्रमितिश्च चतुर्धा जटान्तं व्यासं कृत्वा बाष्कलादि अग्निमित्रान्तेभ्यः षट् शिष्येभ्यः, स्वसुताय माण्डूकेयाय च ददौ। माण्डूकेयस्य शिष्यो वेदमित्र स्तस्य पुत्रेभ्यः सौभर्यादिभ्यः , तैस्सह स्वसुताय शाकल्याय ददौ। शाकल्यः संहिता-पद-क्रम-जटा-दण्डरूपञ्च पञ्चधा व्यासं कृत्वा, वात्स्य- मुद्गल-शालीय- गोखल्य- शिशिरेभ्यो ददौ। शाकल्यशिष्यो जातूकर्ण्यः सनिरुक्तां संहितां बलाक- पैज- वैताल-विरजेभ्यो ददौ। पूर्वोक्तबाष्कलपुत्रो बाष्कलिः पूर्वोक्त सर्वशाखाभ्य उद्धृत्य वालखिल्याख्य संहितां चक्रे। तन्नाम्नीं वालखिल्य संहितां वालायनिप्रभृतयोधीतवन्तः।

इति पदेषु संहितात्वमितिकरणवेष्टनं, उदात्तानुदात्तस्वरितस्वराणां सिद्धिः, एतच्छन्दसां व्यासं विस्तारं श्रुत्वा सर्पपापैः प्रमुच्यत इत्यर्थः।

तथा च विष्णुपुराणे-

ब्रह्मणा चोदितो व्यासो वेदान् यस्तु प्रचक्रमे।

अथ शिष्यान् स जग्राह चतुरो वेदपारगान्।। 1।।

ऋग्वेदश्रावकं पैलं सञ्जग्राह महामतिः।

वैश्म्पायननामानं यजुर्वेदस्य चाग्रहीत्।। 2।।

जैमिनि स्सामवेदस्य तथैवाथर्ववेदवित्।

सुमन्तु स्तस्य शिष्योभूद् वेदव्यासस्य धीमतः।। 3।।

तथा च गृह्यसूत्रम्। -

सुमन्तु-जैमिनि-वैशम्पायन-पैल- सूत्र-भाष्य- भारत-महाभारत-धर्माचार्या (आ.गृ.सू.3अ.4खं.) इति । जानन्ति बाहवी.. इत्यारभ्य माण्डूकेया (आ.गृ.सू.3.अ.4.खं) इत्यन्तं माण्डूकगणसमुदायः। गर्गी- वाचक्नवी इत्यारभ्य शाङ्खायनम् (आ..गृ..सू..3अ..4खं..) इत्यन्तेन शाङ्खायनगणः। एतेषां कौषीतकी ब्राह्मणमारण्यकं शाङ्कायनसूत्रञ्चेति। ऐतरेयम्- इत्यारभ्य आश्वलायनम् (आ.गृ.सू.3अ4खं.) इत्यन्ता आश्वलायनगणः। एषा मैतरेय ब्राह्मणमारण्यक माश्वलायनसूत्रञ्चेत्यर्थः।। 1।।