आपदा मपहर्तारं दातारं सर्वसंपदाम्।
लोकाभिरामं श्रीरामं भूयोभूयो नमाम्यहम् 1
आर्तानामार्तिहन्तारं भीतानां भीतिनाशनम्।
द्विषतां कालदण्डं तं रामचन्द्रं नमाम्यहम्।। 2
नमः कोदण्डहस्ताय सन्धीकृत शराय च।
खण्डिताखिलदैत्याय रामायाप न्निवारिणे।। 3
रामाय रामभद्राय रामचंद्राय वेधसे।
रघुनाथाय नाथाय सीतायाः पतये नमः।। 4
अग्रतः पृष्ठतश्चैव पार्श्वतश्च महाबलौ।
आकर्णपूर्णधन्वानौ रक्षेतां रामलक्ष्मणौ।। 5 सन्नद्धः कवची खड्गी चापबाणधरो युवा।
गच्छन् ममाग्रतो नित्यं रामः पातु सलक्ष्मणः।। 6 अच्युतानन्त गोविन्द नामोच्चारण भेषजात्।
नश्यन्ति सकला रोगा स्सत्यं सत्यं वदाम्यहम्। 7
सत्यं सत्यं पुन स्सत्य मुद्धृत्य भुज मुच्यते।
वेदाच्छास्त्रं परं नास्ति न दैवं केशवात्परम्। 8
शरीरे जर्जरीभूते व्याधिग्रस्ते कळेवरे।
औषधं जाह्नवी तोयं वैद्यो नारायणो हरिः।। 9
नमो ब्रह्मण्यदेवाय गोब्राह्मण हिताय च।
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः।। 10
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः।
इद मेकं सुनिष्पन्नं ध्येयो नारायणो हरिः।। 11
नमः कमलनाभाय नमस्ते जलशायिने।
नमस्ते केशवानन्त वासुदेव नमोस्तुते।। 12
आकाशा त्पतितं तोयं यथा गच्छति सागरम्।
सर्वदेव नमस्कारः केशवं प्रतिगच्छति।। 13
सर्ववेदेषु यत्पुण्यं सर्वतीर्थेषु यत्फलम्।
तत्फलं समवाप्नोति स्तुत्वा देवं जनार्दनम्।। 14
अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा।
यस्स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तर श्शुचिः।। 15