वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी।

श्रीमान्नारायणो विष्णु र्वासुदेवोभिरक्षतु।। 21

सुमुख श्चैकदन्तश्च कपिलो गजकर्णकः।

लम्बोदरश्च विकटो विघ्नराजो गणाधिपः।। 22

धूम्रकेतु र्गणाध्यक्षः फालचन्द्रो गजाननः।

वक्रतुण्ड श्शूर्पकर्णो हेरम्ब स्स्कन्दपूर्वजः।। 23

षोडशैतानि नामानि यः पठे च्छृणुयादपि।

विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।

संग्रामे सर्वकार्येषु विघ्नस्तस्य न जायते।। 24

हनुमा नञ्जनासूनु र्वायुपुत्रो महाबलः।

रामेष्टः फल्गुनसखः पिङ्गाक्षोमित विक्रमः।। 25

उदधिक्रमणश्चैव सीताशोक विनाशकः।

लक्ष्मण प्राणदाता च दशग्रीवस्य दर्पहा। 26

द्वादशैतानि नामानि कपीन्द्रस्य महात्मनः।

स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः।

तस्य मृत्युभयं नास्ति सर्वत्र विजयी भवेत्।। 27

आपदामपहर्तारं दातारं सर्वसम्पदाम्‌।

लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌।। 28