यश्शिवो नाम रूपाभ्यां या देवी सर्वमङ्गळा।

तयो स्संस्मरणात्पुंसां सर्वतो जय मङ्गळम्।। 115

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।

विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंघ्रियुगं स्मरामि।। 116

यत्र योगेश्वर कृष्णो यत्र पार्थो धनुर्धरः।

तत्र श्रीर्विजयो भूति र्ध्रुवा नीति र्मति र्मम।। 117

स्मृते सकल कळ्याण भाजनं यत्र जायते।

पुरुष स्त मजं नित्यं व्रजामि शरणं हरिम्।। 118

सर्वदा सर्वकार्येषु नास्ति तेषा ममङ्गळम्।

येषां हृदिस्थो भगवा न्मंगळायतनं हरिः।। 119

लाभ स्तेषां जय स्तेषां कुत स्तेषां पराभवः।

येषा मिन्दीवर श्यामो हृदयस्थो जनार्दनः।। 120

सर्वमङ्गळ माङ्गळ्ये शिवे सर्वार्थ साधिके।

शरण्ये त्र्यंबके देवि नारायणि नमोस्तुते।। 121

शिवनामनि भावितेतन्तरङ्गे महति ज्योतिषि मानिनीमयार्थे।

दुरितान्यपयान्ति दूरदूरे मुहुरायान्ति महान्ति मङ्गळानि।। 122