1. अथातो ब्रह्मजिज्ञासा

नित्यानित्यविवेकवान् शमदम श्रद्धा तितिक्षायुतः

कर्तृत्वोपरत स्समाहितमनाः वैराग्यसम्पन्नधीः।

साध्यं वेत्ति मुमुक्षु साधकगणो यस्याः प्रसन्नेक्षणात्

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 1

पौनःपुन्य जनि प्रमीतिभयतो मोक्षाय यस्याः कृपा

सादृश्याधिकता विहीन परमानन्दस्य लब्ध्यै हिता

ज्ञेयब्रह्म पराप्ति रूप सुविदे निश्रेयसायेडिता

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 2

स्वातन्त्र्येण निवर्तते जनततेः कर्मक्षय न्तन्वती

विक्षेपावरणात्मकं स्वमुभयं शक्तिद्वयं बिभ्रती

मोक्षो नाम यदीय मोचन मतो येयं मया स्तूयते

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 3

सर्वस्यास्त्यधिकार एव नितरां मोक्षे विशेषो न च

योषिद्बालक निम्नजा अधिकृता मुक्ता यदाशीर्बलात्

तिर्यञ्च श्शुक हस्ति जनुष स्सन्तीर्णवन्तः पुरा

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 4

को मोक्षः क्रतुनिष्कृति र्ननु महोपास्ति सुखं लौकिकम्

सायुज्यं परदेवतात्मनि न वा लोकान्तराप्ति स्तथा।

स्वात्मज्ञाननिरोधहानि रिति हि ज्ञानं यतो जायते

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 5

2. जन्माद्यस्य यतः

अध्यासप्रभवा लसन्ति जनयो यस्या निमित्तेन हि

यच्चैतन्यवशा दनन्ति बहुधा व्यापारवन्तोपि वा।

कल्पान्ते मरणे सुषुप्तिसमये संपूजिता यल्लयात्

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 6

निर्द्वन्द्वं विगुणं निरस्तसकलोपाधि प्रमाणातिगं

ब्रह्म स्वं परिहीय धाम सगुणं रूपान्तराभासकम्।

यल्लासेन जगन्ति जाग्रति लयं यान्तीति सम्भाव्यते

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 7

सर्गेच्छा भविता बभूव बहुधाधिष्ठातु रस्या वशात्

आकाशानिल पावकाम्बु पृथिवी सत्तानिमित्ता च या।

पञ्चीकृत्य च भौतिकं तदितरत् जज्ञे सदात्मन्यतः

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 8

3. शास्त्रयोनित्वात्

यर्चाँ याजुष सामगीति निचयोत्पत्तिः पुरा ब्रह्मणो

निश्वासस्य मुखेन विस्तृतवचाः शास्त्रस्य योनीति च।

ख्यायंख्याय ममुष्यसर्वकरता मुद्बोधयित्री सदा

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 9

वेदान्तार्थविचारणाभ्युपगमं ब्रह्मैव नान्यन्मृषा

पूर्णं शास्त्रमिदं ब्रवीति बहुधा तात्पर्यनिर्धारणे

ब्रह्मात्मस्थिति वैभवो भवति यच्छास्त्रस्य योन्या सुधीः।। 10

4. तत्तु समन्वयात्।

साध्ये धर्मगणे यथा प्रमितिता सिद्धे तथा न क्वचित्

शारीरी बहुकार्यभारनिरतो भोक्ताशरीरं त्विदम्।

ब्रह्माखण्डित नित्य निस्तुल सुखं यच्छास्त्रतो नान्यथा

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 11

प्राधान्ये न विचेतने न च मिते जीवे जगद्धेतुता

सत् शक्तं सकलज्ञमुच्युतपदं सर्गे निदानं भवेत्।

इत्येवं हि समन्वयः प्रभविता यद्योगभाजो ध्रुवम्

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 12

5. ईक्षतेश्चाशब्दम्

सृज्यां विश्वमितीक्षिता स हि भवेत् यश्चेतनावान् विभुः

नापीदं गुणसाम्यभेदवशतो सम्भाव्यतेदोद्भुतम्।

चेतोहीनतया न सृष्टिरितिचेत् यन्मायया तद्भवेत्

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 13

ओं तद् ब्रह्म सदात्म भूम विनुतं यद्वेदशीर्षोदितं

सर्वज्ञत्व पदेन तद्धि घटते नान्यत् प्रधानादिकम्।

सङ्कल्पो जगदुद्भवेक्षणपर यस्या न वाचान्यतः

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 14

6. गौणश्चेन्नात्मशब्दात्

पिण्डोयस्मय औष्ण्यदाहकगुणौ प्राप्नोति यत्सन्निधौ

सोयं पावक एव वस्तुदहनो नैततद्गुणावेशितः।

सृष्टिश्चापि यदात्मनो भवदियं गौणे प्रधाने न हि

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 15

तेजोबन्नगणे यदीयसृजने सर्गेक्षणा वर्णिता

नूनं तद्गत रक्षकत्व कथनं स्यादौपचारेण यत्

तज्ज स्तल्ल तदानितो नहि भवेत् यन्मूलमेवान्तरा।

सा विद्या ललिता हितस्वचरणानन्दा सदा भातु मे।। 16

7. तन्निष्ठस्य मोक्षोपदेशात्। १,१.७